Madhurashtakam Lyrics – अधरं मधुरं लिरिक्स (Adharam Maduram Lyrics)

SHARE:

Madhurashtakam Lyrics | अधरं मधुरं लिरिक्स | Adharam Madhuram Lyrics

Madhurashtakam Lyrics

यहाँ अधरं मधुरं लिरिक्स, Madhurashtakam Lyrics दिया गया है:-

अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं |
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

वचनं मधुरं चरितं मधुरं,
वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

वेणुर्मधुरो रेणुर्मधुरः,
पाणिर्मधुरः पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

गीतं मधुरं पीतं मधुरं,
भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

करणं मधुरं तरणं मधुरं,
हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

गुंजा मधुरा माला मधुरा,
यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

गोपी मधुरा लीला मधुरा,
युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

गोपा मधुरा गावो मधुरा,
यष्टिर्मधुरा सृष्टिर्मधुरा |
दलितं मधुरं फलितं मधुरं,
मधुराधिपतेरखिलं मधुरं ||

अधरं मधुरं वदनं मधुरं,
नयनं मधुरं हसितं मधुरं |
हृदयं मधुरं गमनं मधुरं,
मधुराधिपतेरखिलं मधुरं ||


SHARE: