Bhavani Ashtakam Lyrics भवानी अष्टकम लिरिक्स – न तातो न माता लिरिक्स
यहाँ Bhavani Ashtakam Lyrics In Hindi भवानी अष्टकम लिरिक्स – न तातो न माता लिरिक्स दिया गया है –
न तातो न माता न बन्धुर्न दाता, न पुत्रो न पुत्री न भृत्यो न भर्ता |
न जाया न विद्या न वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 1 ||
भवाब्धावपारे महादुःखभीरुः, पपात प्रकामी प्रलोभी प्रमत्तः |
कुसंसार-पाश-प्रबद्धः सदाहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 2 ||
न जानामि दानं न च ध्यानयोगंन जानामि तंत्रं न च स्तोत्र-मन्त्रम् |
न जानामि पूजां नच न्यासयोगं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 3 ||
न जानामि पुण्यं न जानामि तीर्थं, न जानामि मुक्तिं लयं वा कदाचित् |
न जानामि भक्तिं व्रतं वापि मात-र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 4 ||
कुकर्मी कुसंगी कुबुद्धिः कुदासःकुलाचार हीनः कदाचार लीनः |
कुदृष्टिः कुवाक्य प्रबन्धःसदाहम्गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 5 ||
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् |
न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 6 ||
विवादे विषादे प्रमादे प्रवासेजले चानले पर्वते शत्रुमध्ये |
अरण्ये शरण्ये सदा मां प्रपाहिगतिस्त्वं गतिस्त्वं त्वमेका भवानि || 7 ||
अनाथो दरिद्रो जरा-रोगयुक्तोमहाक्षीणदीनः सदा जाड्यवक्त्रः |
विपत्तौ प्रविष्टः प्रणष्टः सदाहम्गतिस्त्वं गतिस्त्वं त्वमेका भवानि || 8 ||
|| इति श्रीमच्छड़्कराचार्यकृतं भवान्यष्टकं सम्पूर्णम् ||